Перевод с санскрита: Алексей Рыбаков
Перевод осуществляется благодаря вашим пожертвованиям.
Поддержите перевод здесь :
СберБанк(карта): 5469380030682461
Яндекс.деньги: 41001811480914
PayPal: sanskrt.srb@gmail.com
श्रीमत्सर्वज्ञानोत्तरागमः
śrīmat-sarva-jñāna-uttara-āgamaḥ
śrīmat–sarva–jñāna–uttara-āgama – почтенная агама, превосходящая все знания
Почтеная Сарваджняноттара агама
योगप्रकरणम्
yoga-prakaraṇam
yoga–prakaraṇa – раздел о йоге
Раздел о йоге
एकाकिनस्तु शान्तस्य यतचित्तविरागिणः ।
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ॥१॥
युक्तस्वप्नावबोधस्य तत्त्वतः शृणु षण्मुख ।
ekākinaḥ tu śāntasya yata-citta-virāgiṇaḥ
yukta-āhāra-vihārasya yukta-ceṣṭasya karmasu
yukta-svapna-avabodhasya tattvataḥ śṛṇu ṣaṭ-mukha
ekākin – уединённый, tu – же, śānta – умиротворённый, yata–citta–virāgin – бесстрастный с обузданным умом, yukta–āhāra–vihāra – адекватный в пище и удовольствиях, yukta–ceṣṭa – правильный в усилиях, karman – действие, yukta–svapna–avabodha – правильно спящий и бодрствующий, tattvataḥ – по сути, śṛṇu – слушай, ṣaṭ–mukha – шестиликий
Послушай же, о Шанмукха, о сути уединённого, умиротворённого, обуздавшего ум, бесстрастного, правильно питающегося и развлекающегося, правильно прилагающего усердия в делах, правильно спящего и бодрствующего.
यो ध्याता यच्च तद्ध्यानं तद्वै ध्यानप्रयोजनम् ॥२॥
सर्वाण्येतानि यो वेत्ति स योगं योक्तुमर्हति ।
yaḥ dhyātā yat ca tat-dhyānam tat vai dhyāna-prayojanam
sarvāṇi etāni yaḥ vetti sa yogam yoktum arhati
yaḥ – который, dhyātar – созерцатель, yat – которое, ca – и, tat–dhyāna – его созерцание, tat – то, vai – действительно, dhyāna–prayojana – цель созерцания, sarvāṇi – все, etāni – эти, yaḥ – который, vetti – знает, sa – тот, yoga – соединение, yoktum – соединять, arhati – должен
Кто есть созерцатель, что его созерцание, цель созерцания. Практиковать йогу должен тот, кто всё это знает.
आत्मा ध्याता मनो ध्यानं ध्येयः सूक्ष्मो महेश्वरः ।
यत्परं परमैश्वर्यमेतद्ध्यानप्रयोजनम् ॥३॥
ātmā dhyātā manaḥ dhyānam dhyeyaḥ sūkṣmaḥ mahā-īśvaraḥ
yat param parama–aiśvaryam etat dhyana–prayojanam
ātman – сам, dhyātar – созерцатель, manas – ум, dhyana – созерцание, dhyeya – созерцаемое, sūkṣma – тонкий, mahā–īśvara – великий владыка, yat – что, para – высший, parama–aiśvarya – высшее владычество, etat – это, dhyana–prayojana – цель созерцания
Душа – созерцатель, ум – созерцание, созерцать надо тонкую форму Махешвары. Цель созерцания – высшее состояние Парамешвары (высшее сверхсостояние).
Перевод осуществляется благодаря вашим пожертвованиям.
Поддержите перевод здесь :
СберБанк(карта): 5469380030682461
Яндекс.деньги: 41001811480914
PayPal: sanskrt.srb@gmail.com
मानामानौ समौ कृत्वा सुखदुःखे समे तथा ।
हर्षं भयं विषादं च संत्यज्य योगमभ्यसेत् ॥४॥
शून्यागारे मठे रम्ये देवतायतने शुभे ।
नदीतीरे विविक्ते वा गृहे घोरवनेऽपि वा ॥५॥
प्रच्छन्ने च विविक्ते च निःशब्दे तनवर्जिते ।
योगदोषविनिर्मुक्ते निर्विकल्पे निरातपे ॥६॥
स्नात्वा शुचिरुपस्पृश्य प्रणम्य शिरसा शिवम् ।
योगाचार्यं नमस्कृत्य योगं युञ्जीत मानवः ॥७॥
पद्मस्वस्तिकं वापि उपस्थायाञ्जलिं तथा ।
पीठार्थमर्धचन्द्रं वा सर्वतोभद्रमेव च ॥
आसनं रुचितं बध्वा पद्माद्यासनलक्षणम् ।
सर्वसङ्गान्परित्यज्य आत्मसंस्थमनोगुहः ।
न दन्तैः संस्पर्शेद्दन्तान् सृक्वण्यौ च न जिह्वया ।
किञ्चित्कुञ्चितनेत्रस्तु शिवं सम्यक् नदोच्चरेत् ।
सोद्गासयति तत्वानि तन्मात्राद्यानि देहिनाम् ।
पुनर्विनाशकश्चैव असंयुक्तः षडाननः ।
न पृथक् हृदयं तस्य शिरो न शिखा गुह ।
चर्मास्त्र नेत्रसहितं तस्मादेव प्रवर्तते ।
प्राणापानौ समौ कृत्वा सुषुम्नान्तरचारिणौ ।
तयोर्वृत्तिं निरुध्यात्मा शिवं ध्यायेद्विचक्षणः ॥
अविनाभावसंयुक्तो ज्योतीरूपं सुनिर्मलम् ।
सुसूक्ष्मं व्यापकं नित्यं निर्विकल्पं सदा बुधः ॥
उत्तमामध्यमामन्दाः सगर्भास्त्रिविधाः स्मृताः ।
प्राणायामांश्च तान् कुर्यात् पूरककुम्भकरेचकान् ।
प्राणायामैर्बहिर्दोषान् धारणाभिस्तु किल्विषम् ।
प्रत्याहारेण संसृज्य ध्यानेनानश्वरान्गुणान् ॥
उदरं पूरयित्वा तु वायुना यावदीप्सितम् ।
प्राणायामो भवेदेवं पूरको देहपूरकः
विधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः ।
सम्पूर्णकुम्भवृत्तिष्ठेत्प्राणायामः स कुम्भकः ।
ततोर्ध्वं रेचयेद्वायुं मृदुनिश्वाससंयुतम् ।
रेचकस्त्वेषविख्यातः प्राणसंशयकारकः ।
प्रसार्यं चाग्रहस्तं तु जानु कृत्वा प्रदक्षिणम् ॥
छोटिकां तु ततो दद्यान्मात्रैषा त्वभिधीयते ।
मात्राद्वादशविज्ञेयः प्रमाणं तालसञ्ज्ञकम् ।
तालद्वादशकं ज्ञेयं प्राणायामस्तु कस्यसः ।
मध्यमस्तु चतुर्विंशत् ज्येष्ठो द्विगुणो भवेत् ॥
एकैकान्वर्धयेन्मात्रां प्रत्यहं योगवित्तमः ।
सत्वरेण विलम्बेन क्रमेणैव विवर्धयेत् ॥
प्राणायामोत्तमो यत्तद्विगुणा धारणामता ।
धारणाद्विगुणो योगो योगोऽपि द्विगुणी कृतः ।
योगसिद्धिरिति ज्ञेया शिवेन परमात्मना ॥
तदानु पश्यते सूक्ष्मं गन्धतन्मात्रमात्मनि ।
रसं तेजश्च स्पर्शं च ऽसब्दतन्मात्रमेव च ।
पश्यते क्रमयोगेन वर्णभावैः पृथग्विधैः ॥
अहङ्कारं मनोबुद्धिगुणमव्यक्तपूरुषम् ।
अभिव्यक्तानि जानीयात् स्वधर्मगुणलक्षणम् ॥
विद्यां कलां ततः कालमायां विद्यां ततः परम् ।
दृष्ट्वानुक्रमशः सर्वान् पुनरस्त्रेण भेदयेत् ॥
विद्येश्वरं ततस्तत्वं ततस्सादाशिवं परम् ।
हित्वार्कं तु क्षुरिकास्त्रेण ततः सूक्ष्मं शिवं विशेत् ॥
अमृतात्मा शिवः साक्षात् तस्मिन्विष्ठस्तु योगवित् ।
सर्वज्ञः सर्वगः सूक्ष्मः सर्वेशः सर्वकृद्भवेत् ।
सर्वेष्वेव शास्त्रेषु ज्ञेयं वस्तुचतुष्टयम् ।
पशुः पाशः पतिश्चैव शिवश्चेति यथाक्रमम् ।
ज्ञात्वा तु तत्त्वसद्भावं तत्रसारं तु दुर्लभम् ।
सर्वथावर्तमानोऽपि गृह्णाति न पुनस्तनुम् ॥