॥श्रीयोगयाज्ञवल्क्यसंहिता ॥
śrī-yoga-yājñavalkya-saṃhitā
Сборник по йоге Яджнявалкьи
Перевод с санскрита: Алексей Рыбаков
В девятой главе рассказывается про дхьяны: визуализацию различных божеств.
Перевод осуществляется благодаря вашим пожертвованиям.
Поддержите перевод здесь :
СберБанк(карта): 5469380030682461
Яндекс.деньги: 41001811480914
PayPal: sanskrt.srb@gmail.com
॥ अथ नवमोऽध्यायः ॥
atha navamaḥ adhyāyaḥ
atha – итак, navama – девятый, adhyāya – раздел
Итак, девятая глава.
याज्ञवल्क्य उवाच
yājñavalkyaḥ uvāca
yājñavalkya – Яджнявалкья, uvāca – сказал
Яджнявалкья сказал:
अथ ध्यानं प्रवक्ष्यामि शृणु गार्गि वरानने ।
ध्यानमेव हि जन्तूनां कारणं बन्धमोक्षयोः ॥१॥
atha dhyānam pravakṣyāmi śṛṇu gārgi vara-ānane
dhyānam eva hi jantūnām kāraṇam bandha-mokṣayoḥ
atha – эдак, dhyāna – созерцание, pravakṣyāmi – провозглашу, śṛṇu – слушай, gārgī – Гарги, vara–ānanā – прекраснолицая, dhyāna – созерцание, eva – же, hi – ведь, jantu – существо, kāraṇa – причина, bandha–mokṣa – связывание и освобождение
Теперь расскажу про дхьяну. Слушай, милоликая Гарги. Ведь именно дхьяна является причиной связывания и освобождения существ.
ध्यानमात्मस्वरूपस्य वेदनं मनसा खलु ।
सगुणं निर्गुणं तच्च सगुणं बहुशः स्मृतम् ॥२॥
dhyānam ātma-sva-rūpasya vedanam manasā khalu
saguṇam nirguṇam tat ca saguṇam bahuśaḥ smṛtam
dhyāna – созерцание, ātma–sva–rūpa – своя истинная форма, vedana – познание, manas – ум, khalu – непременно, saguṇa – с качествами, nirguṇa – без качеств, tat – то, ca – и, saguṇa – с качествами, bahuśaḥ – многообразно, smṛta – запомненный
Дхьяна, как известно, – это познание умом своей истинной формы. Она бывает с качествами и без качеств. С качествами бывает нескольких видов.
पञ्चोत्तमानि तेष्वाहुर्वैदिकानि द्विजोत्तमाः ।
त्रीणि मुख्यतमान्येषामेकमेव हि निर्गुणम् ॥३॥
pañca uttamāni teṣu āhuḥ vaidikāni dvi-ja-uttamāḥ
trīṇi mukhyatamāni eṣām ekam eva hi nirguṇam
pañca – пять, uttama – лучший, teṣu – в них, āhuḥ – сказали, vaidika – ведические, dvi–ja–uttama – лучший из дваждырождённых, trīṇi – три, mukhyatama – самый главный, eṣām – у этих, eka – один, eva – же, hi – ведь, nirguṇa – без качеств
Лучшие из дваждырождённых называют среди них лучшими пять ведических. Три из них – самые главные. Без качеств только одна.
Перевод осуществляется благодаря вашим пожертвованиям.
Поддержите перевод любой суммой здесь :
СберБанк(карта): 5469380030682461
Яндекс.деньги: 41001811480914
PayPal: sanskrt.srb@gmail.com
मर्मस्थानानि नाडीनां संस्थानं च पृथक्पृथक् ।
वायूनां स्थानकर्माणि ज्ञात्वा कुर्वात्मवेदनम् ॥४॥
एकं ज्योतिर्मयं शुद्धं सर्वगं व्योमवलुदम् ।
अव्यक्तमचलं नित्यमादिमघ्यान्तवर्जितम् ॥५॥
स्थूलं सूक्ष्ममनाकारमसंस्पृश्यमचाक्षुषम् ।
न रसं न च गन्धाख्यमप्रमेयमनौपमम् ॥६॥
आनन्दमजरं नित्यं सदसत्सर्वकारणम् ।
सर्वाधारं जगद्रूपममूर्तमजमव्ययम् ॥७॥
अदृश्यं दृश्यमन्तःस्थं बहिर्स्थं सर्वतोमुखम् ।
सर्वदृक्सर्वतःपादं सर्वस्पृक् सर्वतःशिरः ॥८॥
ब्रह्म ब्रह्ममयोऽहं स्यामिति यद्वेदनं भवेत्॥
तदेतन्निर्गुणं ध्यानमिति ब्रह्मविदो विदुः ॥९॥
अथवा परमात्मानं परमानन्दविग्रहम् ।
गुरूपदेशाद्विज्ञाय पुरुषं कृष्णपिङ्गलम् ॥१०॥
ब्रह्म ब्रह्मपुरे चास्मिन्दहराम्बुजमध्यमे॥
अभ्यासात्सम्प्रपश्यन्ति सन्तं संसारभेषजम् ॥११॥
ह्रृत्पद्मेऽष्टदलोपेते कन्दमध्यात्समुत्थिते ।
द्वादशाङ्गुलनालेऽस्मिश्चतुरङ्गुलमुन्मुखे ॥१२॥
प्राणायामैर्विकासिते केसरान्वितकर्णिके ।
वासुदेवं जगन्नाथं नारायणमजं हरिम् ॥१३॥
चतुर्भुजमुदाराङ्गं शङ्खचक्रगदाधरम् ।
किरीटकेयूरधरं पद्मपत्रनिभेक्षणम् ॥१४॥
श्रीवत्सवक्षसं विष्णुं पूर्णचन्द्रनिभाननम् ।
पद्मोदरदलाभोष्ठं सुप्रसन्नं शुचिस्मितम् ॥१५॥
शुद्धस्फटिकसङकाशं पीतवाससमच्युतम् ।
पद्मच्छविपदद्वन्द्वं परमात्मानमव्ययम् ॥१६॥
प्रभाभिर्भासयद्रूपं परितः पुरुषोत्तमम् ।
मनसालोक्य देवेशं सर्वभूतहृदि स्थितम् ॥१७॥
सोऽहमात्मेति विज्ञानं सगुणं ध्यानमुच्यते ।
हृत्सरोरुहमध्येऽस्मिन्प्रकृत्यात्मककर्णिके ॥१८॥
अष्टैश्वर्यदलोपेते विद्याकेसरसंयुते ।
ज्ञाननाले बृहत्कन्दे प्राणायामप्रबोधिते ॥१९॥
विश्वार्चिषं महावह्निं ज्वलन्तं विश्वतोमुखम् ।
वैश्वानरं जगद्योनिं शिखातन्विनमीश्वरम् ॥२०॥
तापयन्तं स्वकं देहमापादतलमस्तकम् ।
निर्वातदीपवत्तस्मिन्दीपितं हव्यवाहनम् ॥२१॥
दृष्ट्वा तस्य शिखामध्ये परमात्मानमक्षरम् ।
नीलतोयदमध्यस्थविद्युल्लेखेव भास्वरम् ॥२२॥
नीवारशूकवद्रूपं पीताभं सर्वकारणम् ।
ज्ञात्वा वैश्वानरं देवं सोऽहमात्मेति या मतिः ॥२३॥
सगुणेषूत्तमं ह्येतद्ध्यानं योगविदो विदुः ।
वैश्वानरत्वं सम्प्राप्य मुक्तिं तेनैव गच्छति ॥२४॥
अथवा मण्डले पश्येदादित्यस्य महाद्युतेः ।
आत्मानं सर्वजगतः पुरुषं हेमरूपिणम् ॥२५॥
हिरण्यश्मश्रुकेशं च हिरण्यमयनखं हरिम् ।
कनकाम्बुजवद्वक्त्रं सृष्ठिस्थित्यन्तकारणम् ॥२६॥
पद्मासनस्थितं सौम्यं प्रबुद्धाब्जनिभाननम् ।
पद्मोदरदलाभाक्षं सर्वलोकाभयप्रदम् ॥२७॥
जानन्तं सर्वदा सर्वमुन्नयन्तं च धार्मिकान् ।
भासयन्तं जगत्सर्वं दृष्ट्वा लोकैकसाक्षिणम् ॥२८॥
सोऽहमस्मीति या बुद्धिः स च ध्यानेषु शस्यते ।
एष एव तु मोक्षस्य महामार्गस्तपोधने ॥२९॥
घ्यानेनानेन सौरेण मुक्तिं यास्यन्ति सूरयः ।
भ्रूवोर्मध्येऽन्तरात्मानं भारूपं सर्वकारणम् ॥३०॥
स्थाणुवन्मूर्धपर्यन्तं मध्यदेहात्मसमुत्थितम् ।
जगत्कारणमव्यक्तं ज्वलन्तममितौजसम् ॥३१॥
मनसालोक्य सोऽहं स्यामित्येतध्यानमुत्तमम् ।
अथवा बद्धपर्यङ्के शितिलीकृतविग्रहे ॥३२॥
शिव एव स्वयं भूत्वा नासाग्रारोपितेक्षणः ।
निर्विकारं परं शान्तं परमात्मानमीश्वरम् ॥३३॥
भारूपममृतं ध्यायेद्भ्रुवोर्मध्ये वरानने ।
सोऽहमेवेति या बुद्धिः सा च ध्यानेषु शस्यते ॥३४॥
अथवाष्टदलोपेते कर्णिकाकेसरान्विते ।
उन्निद्रहृदयाम्भोजे सोममण्डलमध्यमे ॥३५॥
स्वात्मानमर्भकाकरं भोक्तृरूपिणमव्ययम् ।
सुधारसं विमुञ्चद्भिः शशिरश्मिभिरावृतम् ॥३६॥
षोडशच्छदसंयुक्ताशिरः पद्मादधोमुखात् ।
निर्गतामृतधाराभिः सहस्राभिः समन्ततः ॥३७॥
प्लावितं पुरुषं तत्र चिन्तयित्वा समाहितः ।
तेनामृतरसेनैव साङ्गोपाङ्गकलेवरे ॥३८॥
अहमेव परं ब्रह्म परमात्माहमव्ययः ।
एवं यद्वेदनं तच्च सगुणं ध्यानमुच्यते ॥३९॥
एवं घ्यानामृतं कुर्वन् षण्मासान्मृत्युजिद्भवेत् ।
वत्सरान्मुक्त एव स्याज्जीवन्नेव न संशयः ॥४०॥
जीवन्मुक्तस्य न क्वापि दुःखावाप्तिः कथञ्चन ।
किं पुनर्नित्यमुक्तस्य मुक्तिरेव हि दुर्लभा ॥४१॥
तस्मात्त्वं च वरारोहे फलं त्यक्त्वेव नित्यशः ।
विधिवत्कर्म कुर्वाणा ध्यानमेव सदा कुरु ॥४२॥
अन्यानपि बहून्याहुर्ध्यानानि मुनिसत्तमाः ।
मुख्यान्युक्तानि चैतेभ्यो जघन्यानीतराणि तु ॥४३॥
सगुणं गुणहीनं वा विज्ञायात्मानमात्मनि ।
सन्तः समाधिं कुर्वन्ति त्वमप्येवं सदा कुरु ॥४४॥
॥इति श्रीयोगयाज्ञवल्क्ये नवमोऽध्यायः ॥