पतञ्जलियोगसूत्राणि (patañjaliyogasūtrāṇi, Йога-сутры Патанджали)

योगदर्शनम्

पतञ्जलियोगसूत्राणि

समाधिपादः

अथ योगानुशासनम् ॥१॥
योगश्चित्तवृत्तिनिरोधः ॥२॥
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥
वृत्ति सारूप्यमितरत्र ॥४॥
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥८॥
शब्दज्ञानानुपातीवस्तुशून्यो विकल्पः ॥९॥
अभावप्रत्ययालम्बनातमोवृत्तिर्निद्र ॥१०॥
अनुभूतविषयासंप्रमोषः स्मृतिः ॥११॥
अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥
तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥
स तु दीर्घकालनैरन्तर्यसत्कारादरासेवितो दृढभूमिः ॥१४॥
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥१५॥
तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम् ॥१६॥
वितर्कविचारानन्दास्मितारुपानुगमात्संप्रज्ञातः ॥१७॥
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥
भवप्रत्ययो विदेहप्रकृतिलयानम् ॥१९॥
श्रद्धावीर्यस्मृति समाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥
तीव्रसंवेगानामासन्नः ॥२१॥
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥
ईश्वरप्रणिधानाद्वा ॥२३॥
क्लेश कर्म विपाकाशयैःपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥
तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥
स एष पूर्वेषामपिगुरुः कालेनानवच्छेदात् ॥२६॥
तस्य वाचकः प्रणवः ॥२७॥
तज्जपः तदर्थभावनम् ॥२८॥
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभवश्च ॥२९॥
व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपाः ते अन्तरायाः ॥३०॥
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाः विक्षेप सहभुवः ॥३१॥
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥
मैत्री करुणा मुदितोपेक्षाणांसुखदुःख पुण्यापुण्यविषयाणां भावनातः चित्तप्रसादनम् ॥३३॥
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबन्धिनी ॥३५॥
विशोका वा ज्योतिष्मती ॥३६॥
वीतराग विषयम् वा चित्तम् ॥३७॥
स्वप्ननिद्रा ज्ञानालम्बनम् वा ॥३८॥
यथाभिमतध्यानाद्वा ॥३९॥
परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥४०॥
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥
एतयैव सविचारा निर्विचारा च सूक्ष्मविषय व्याख्याता ॥४४॥
सूक्ष्मविषयत्वम्चालिण्ग पर्यवसानम् ॥४५॥
ता एव सबीजस्समाधिः ॥४६॥
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥४७॥
ऋतंभरा तत्र प्रज्ञा ॥४८॥
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥
तज्जस्संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥५०॥
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥५१॥

 

साधनपादः

तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥
समाधिभावनार्थः क्लेश तनूकरणार्थश्च ॥२॥
अविद्यास्मितारागद्वेषाभिनिवेशः क्लेशाः ॥३॥
अविद्या क्षेत्रमुत्तरेषाम् प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥५॥
दृग्दर्शनशक्त्योरेकात्मतैवास्मिता ॥६॥
सुखानुशयी रागः ॥७॥
दुःखानुशयी द्वेषः ॥८॥
स्वरस्वाहि विदुषोऽपि समारूढोऽभिनिवेशः ॥९॥
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥
ध्यान हेयाः तद्वृत्तयः ॥११॥
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥
सति मूले तद्विपाको जात्यायुर्भोगाः ॥१३॥
ते ह्लाद परितापफलाः पुण्यापुण्यहेतुत्वात् ॥१४॥
परिणाम ताप संस्कार दुःखैः गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥१५॥
हेयं दुःखमनागतम् ॥१६॥
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥१७॥
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१९॥
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥
तदर्थ एव दृश्यस्यात्मा ॥२१॥
कृतार्थं प्रतिनष्टंप्यनष्टं तदन्य साधारणत्वात् ॥२२॥
स्वस्वामिशक्त्योः स्वरूपोप्लब्धिहेतुः संयोगः ॥२३॥
तस्य हेतुरविद्या ॥२४॥
तदभाबात्संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥२५॥
विवेकख्यातिरविप्लवा हानोपायः ॥२६॥
तस्य सप्तधा प्रान्तभूमिः प्रज्ञ ॥२७॥
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२८॥
यम नियमासन प्राणायाम प्रत्याहार धारणा ध्यान समाधयोऽष्टावङ्गानि ॥२९॥
अहिंसासत्यास्तेय ब्रह्मचर्यापरिग्रहाः यमाः ॥३०॥
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमामहाव्रतम् ॥३१॥
शौच संतोष तपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥३२॥
वितर्कबाधने प्रतिप्रक्षभावनम् ॥३३॥
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहापूर्वका मृदुमध्य अधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिप्रक्षभावनम् ॥३४॥
अहिंसाप्रतिष्ठायं तत्सन्निधौ वैरत्याघः ॥३५॥
सत्यप्रतिष्थायं क्रियाफलाश्रयत्वम् ॥३६॥
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥
ब्रह्मचर्य प्रतिष्ठायां वीर्यलाभः ॥३८॥
अपरिग्रहस्थैर्ये जन्मकथंता संबोधः ॥३९॥
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥
सत्त्वशुद्धिः सौमनस्यैकाग्र्येन्द्रियजयात्मदर्शन योग्यत्वानि च ॥४१॥
संतोषातनुत्तमस्सुखलाभः ॥४२॥
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥४३॥
स्वाध्यायादिष्टदेवता संप्रयोगः ॥४४॥
समाधि सिद्धिः ईश्वरप्रणिधानात् ॥४५॥
स्थिरसुखमासनम् ॥४६॥
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥४७॥
ततो द्वङ्द्वानभिघातः ॥४८॥
तस्मिन् सति श्वासप्रश्वास्योर्गतिविच्छेदः प्राणायामः ॥४९॥
बाह्याभ्यन्तरस्थम्भ वृत्तिः देशकालसन्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥५०॥
बाह्याभ्यन्तर विषयाक्षेपी चतुर्थः ॥५१॥
ततः क्षीयते प्रकाशावरणम् ॥५२॥
धारणासु च योग्यता मनसः ॥५३॥
स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकारैवेन्द्रियाणां प्रत्याहारः ॥५४॥
ततः परमावश्यता इन्द्रियाणाम् ॥५५॥

विभूतिपादः

देशबन्धः चित्तस्य धारणा ॥१॥
तत्र प्रत्ययैकतानता ध्यानम् ॥२॥
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिः ॥३॥
त्रयमेकत्र संयमः ॥४॥
तज्जयात् प्रज्ञालोकः ॥५॥
तस्य भूमिषु विनियोगः ॥६॥
त्रयमन्तरन्गं पूर्वेभ्यः ॥७॥
तदपि बहिरङ्गं निर्बीजस्य ॥८॥
व्युत्थाननिरोधसंस्कारयोः अभिभवप्रादुर्भावौ निरोधक्षण चित्तान्वयो निरोधपरिणामः ॥९॥
तस्य प्रशान्तवाहिता संस्कारत् ॥१०॥
सर्वार्थता एकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥
ततः पुनः शातोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था परिणामा व्याख्याताः ॥१३॥
शानोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
क्रमान्यत्वं परिणामान्यतेवे हेतुः ॥१५॥
परिणामत्रयसंयमाततीतानागत ज्ञानम् ॥१६॥
शब्दार्थप्रत्ययामामितरेतराध्यासात्संकरः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥१७॥
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥१८॥
प्रत्ययस्य परचित्तज्ञानम् ॥१९॥
न च तत् सालम्बनं तस्याविषयी भूतत्वात् ॥२०॥
कायरूपसंयमात् तत्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासंप्रयोगेऽन्तर्धानम् ॥२१॥
सोपक्रमं निरुपक्रमं च कर्म तत्संयमातपरान्तज्ञानम् अरिष्टेभ्यो वा ॥२२॥
मैत्र्यदिषु बलानि ॥२३॥
बलेषु हस्तिबलादीनी ॥२४॥
प्रवृत्त्यालोकन्यासात् सूक्ष्माव्यावहितविप्रकृष्टज्ञानम् ॥२५॥
भुवज्ञानं सूर्येसंयमात् ॥२६॥
चन्द्रे तारव्यूहज्ञानम् ॥२७॥
ध्रुवे तद्गतिज्ञानम् ॥२८॥
नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥
कन्ठकूपे क्षुत्पिपासा निवृत्तिः ॥३०॥
कूर्मनाड्यां स्थैर्यम् ॥३१॥
मूर्धज्योतिषि सिद्धदर्शनम् ॥३२॥
प्रातिभाद्वा सर्वम् ॥३३॥
ह्र्डये चित्तसंवित् ॥३४॥
सत्त्वपुरुषायोः अत्यन्तासंकीर्णयोः प्रत्ययाविशेषोभोगः परार्थत्वात्स्वार्थसंयमात् पुरुषज्ञानम् ॥३५॥
ततः प्रातिभस्रावाणवेदनादर्शास्वादवार्ता जायन्ते ॥३६॥
ते समाधवुपसर्गाव्युत्थाने सिद्धयः ॥३७॥
बद्न्हकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३८॥
उदानजयाअत् जलपण्खकण्टकादिष्वसङ्गोऽत्क्रान्तिश्च ॥३९॥
समानजयाज्ज्वलनम् ॥४०॥
श्रोत्राकाशयोः संबन्धसंयमात् दिव्यं श्रोत्रम् ॥४१॥
कायाकाशयोः संबन्धसंयमात् लघुतूलसमापत्तेश्चाकाश गमनम् ॥४२॥
बहिरकल्पिता वृत्तिः महाविदेहा ततः प्रकाशावरणक्षयः ॥४३॥
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥४४॥
ततोऽणिमादिप्रादुर्भावः कायसंपत् तद्धरानभिघात्श्च ॥४५॥
रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥४६॥
ग्रहणस्वरूपास्मितावयार्थवत्त्वसंयमातिन्द्रिय जयः ॥४७॥
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥४९॥
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५०॥
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥
क्षणतत्क्रमयोः संयमात् विवेकजंज्ञानम् ॥५२॥
जातिलक्षणदेशैः अन्यतानवच्छेदात् तुल्ययोः ततः प्रतिपत्तिः ॥५३॥
तारकं सर्वविषयं सर्वथाविषयमक्रमंचेति विवेकजं ज्ञानम् ॥५४॥
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥५५॥

 

कैवल्यपादः

जन्मओषधिमन्त्रतपस्समाधिजाः सिद्धयः ॥१॥
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥
निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥
निर्माणचित्तान्यस्मितामात्रात् ॥४॥
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥
तत्र ध्यानजमनाशयम् ॥६॥
कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ॥७॥
ततः तद्विपाकानुग्णानामेवाभिव्यक्तिः वासनानाम् ॥८॥
जाति देश काल व्यवहितानामप्यान्तर्यां स्मृतिसंस्कारयोः एकरूपत्वात् ॥९॥
तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥
हेतुफलाश्रयालम्बनैःसंगृहीतत्वातेषामभावेतदभावः ॥११॥
अतीतानागतं स्वरूपतोऽस्तिअध्वभेदाद् धर्माणाम् ॥१२॥
ते व्यक्तसूक्ष्माः गुणात्मानः ॥१३॥
परिणामैकत्वात् वस्तुतत्त्वम् ॥१४॥
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥१५॥
न चैकचित्ततन्त्रं चेद्वस्तु तदप्रमाणकं तदा किं स्यात् ॥१६॥
तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातं ॥१७॥
सदाज्ञाताः चित्तव्र्त्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥
न तत्स्वाभासं दृश्यत्वात् ॥१९॥
एक समये चोभयानवधारणम् ॥२०॥
चित्तान्तर दृश्ये बुद्धिबुद्धेः अतिप्रसङ्गः स्मृतिसंकरश्च ॥२१॥
चितेरप्रतिसंक्रमायाः तदाकारापत्तौ स्वबुद्धि संवेदनम् ॥२२॥
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥
तदसङ्ख्येय वासनाभिः चित्रमपि परार्थम् संहत्यकारित्वात् ॥२४॥
विशेषदर्शिनः आत्मभावभावनानिवृत्तिः ॥२५॥
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥२६॥
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२७॥
हानमेषां क्लेशवदुक्तम् ॥२८॥
प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेः धर्ममेघस्समाधिः ॥२९॥
ततः क्लेशकर्मनिवृत्तिः ॥३०॥
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पम् ॥३१॥
ततः कृतार्थानं परिणामक्रमसमाप्तिर्गुणानाम् ॥३२॥
क्षणप्रतियोगी परिणामापरान्त निर्ग्राह्यः क्रमः ॥३३॥
पुरुषार्थशून्यानां गुणानांप्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥३४॥